|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.166. अध्यायः 166
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन युधिष्ठिरादीन्प्रति संक्षेपेण स्वकीयस्वर्गनिवासप्रकारकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-166-0x(2306)(22347)
ततः कदाचिद्धरिसंप्रयुक्तं
महेन्द्रवाहं सहसोपयातम्।
विद्युत्प्रभं प्रेक्ष्य महारथानां
हर्षोऽर्जुनं चिन्तयतां बभूव ॥ 3-166-1(22348)
स दीप्यमानः सहसाऽन्तरिक्षं
प्रकाशयन्मातलिसंगृहीतः।
बभौ महोल्केव घनान्तरस्था
शिखेव चाग्नेर्ज्वलिता विधूमा ॥ 3-166-2(22349)
तमास्थितः संददृशे किरीटी
स्रग्वी नवान्याभरणानि बिभ्रत्।
धनंजयो वज्रधरप्रभावः
श्रिया ज्वलन्पर्वतमाजगाम् ॥ 3-166-3(22350)
स शैलमासाद्य किरीटमाली
महेन्द्रवाहादवरुह्य तस्मात्।
धौम्यस्य पादावभिवाद्य पूर्व-
मजातशत्रोस्तदनन्तरं च ॥ 3-166-4(22351)
वृकोदरस्यापि च वन्द्य पादौ
माद्रीसुताभ्यामभिवादितश्च।
समेत्य कृष्णां परिसान्त्व्य चैनां
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ 3-166-5(22352)
बभूव तेषां परमः प्रहर्ष-
स्तेनाप्रमेयेण समेत्य तत्र।
स चापि तान्प्रेक्ष्य किरीटमाली
ननन्द राजानमभिप्रशंसन् ॥ 3-166-6(22353)
यमास्थितः सप्त जघान पूगान्
दितेः सुतानां नमुचेर्निहन्ता।
तमिन्द्रवाहं समुपेत्य पार्थाः
प्रदक्षिणं चक्रुरदीनसत्वाः ॥ 3-166-7(22354)
ते मातलेश्चक्रुरतीव हृष्टाः
सत्कारमग्र्यं सुरराजतुल्यम्।
सर्वं यथावच्च दिवौकसङ्घं
पप्रच्युरेनं कुरुराजपुत्राः ॥ 3-166-8(22355)
तानप्यसौ मातलिरभ्यनन्द-
त्पितेव पुत्राननुशिष्य पार्थान्।
ययौ रथेनाप्रतिमप्रभेण
पुनः सकाशं त्रिदिवेश्वरस्य ॥ 3-166-9(22356)
गते तु तस्मिन्वरदेववाहे
शक्रात्मजः सर्वरिपुप्रमाथी।
`साक्षात्सहस्राक्ष इव प्रतीतः
श्रीमान्स्वदेहादवमुच्य जिष्णुः' ॥ 3-166-10(22357)
शक्रेण दत्तानिददौ महात्मा
महाधनान्युत्तमरूपवन्ति।
दिवाकराभाणि विभूषणानि
प्रीतः प्रियायै सुतसोममात्रे ॥ 3-166-11(22358)
ततऋः स तेषां कुरुपुङ्गवानां
तेषां च सूर्याग्निसमप्रभाणाम्।
विप्रर्षभाणामुपविश्य मध्ये
सर्वं यथावत्कथयांबभूव ॥ 3-166-12(22359)
एवं मयाऽस्त्राण्युपशिक्षितानि
शक्राच्च वायोश्च शिवाच्च साक्षात्।
तथैव शीलेन समाधिना च
प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ 3-166-13(22360)
संक्षेपतो वै स विशुद्धकर्मा
तेभ्यः समाख्याय दिवःप्रवेशम्।
माद्रीसुताभ्यां सहितः किरीटी
सुष्वाप तामावसतिं प्रतीतः ॥ 3-166-14(22361)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-166-1 हरिभिरश्वैः संप्रयुक्तम्। महेन्द्रस्य वाहं रथम् ॥ 3-166-5 प्रह्वो नम्रः। उपह्णरे समीपे ॥ 3-166-7 पूगान्यूथानि ॥ 3-166-8 एनं मातलिम् ॥ 3-166-11 सुतसोमो भीमाद्द्रौपद्यां जातः ॥ 3-166-14 आवसतिं रात्रिम्। प्रतीतो हृष्ठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|